Satish B. SettyArchiveAbout

Vidura Nīti

Udyōga parva

BORI: 5–33 to 5–40 [ 104 + 83 + 67 + 72 + 60 + 44 + 70 + 30 = 530 ] Gītā Press: 5–33 to 5–40 [ 129 + 86 + 77 + 74 + 64 + 47 + 85 + 32 = 594 ] Kumbhakonam: 5–33 to 5–40 [32706 to 33318 = 613 ślokas. 8 slokas are interpolated]

Some slokas delimited within @…@ are found in Kumbhakonam, but not Gita Press. Not all slokas within @…@ are there in Kumbakonam. Only some. They are also marked in Kumbakonam within backticks.

However, all of the slokas in @…@ are not found in Gita Press. Conclusion: they can be ignored!

Dākṣiṇātya ślōkas in Gītā Press are in (…). They are also marked here in brackets (…). However, many such ślōkas in GP’s (…) are not marked here, but re-numbered in main text. Conclusion: Include such slokas!

Variants (those within []):

  1. If GP & K. agree, choose that
  2. If GP & Bori agree, choose that
  3. If K. & Bori agree, choose that
  4. If none agree, go with Bori

Extra slokas {those within @@ or ()}:

  1. Keep all slokas in GP including un-numbered dākṣiṇātya slokas
  2. If sloka does not exist in both GP and K., delete it
  3. If sloka exists in K. under backticks, delete it
  4. If sloka exists in K. but not GP: a. If it also exists in PPS, keep it b. Else delete it
  5. Delete everything else

त्रयस्त्रिंशोऽध्यायः प्रजागरपर्व धृतराष्ट्रविदुरसंवादः वैशम्पायन उवाच द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः। विदुरं द्रष्टुमिच्छामि तमिहानय मा चिरम्॥ 5–33–1 प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत्। ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति॥ 5–33–2 एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम्। अब्रवीद्धृतराष्ट्राय द्वाःस्थं मां प्रतिवेदय॥ 5–33–3 द्वाःस्थ उवाच विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात्। द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम्॥ 5–33–4 धृतराष्ट्र उवाच प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम्। अहं हि विदुरस्यास्य नाकल्पो जातु दर्शने॥ 5–33–5 द्वाःस्थ उवाच प्रविशान्तःपुरं क्षत्तर्महाराजस्य धीमतः। नहि ते दर्शनेऽकल्पो जातु राजाब्रवीद्धि माम्॥ 5–33–6 वैशम्पायन उवाच ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम्। अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम्॥ 5–33–7 विदुरोऽहं महाप्राज्ञ सम्प्राप्तस्तव शासनात्। यदि किञ्चन कर्तव्यमयमस्मि प्रशाधि माम्॥ 5–33–8 धृतराष्ट्र उवाच सञ्जयो विदुर प्राज्ञो गर्हयित्वा च मां गतः। अजातशत्रोःश्वो वाक्यं सभामध्ये स वक्ष्यति॥ 5–33–9 तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया। तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम्॥ 5–33–10 जाग्रतो दह्यमानस्य श्रेयो यदनुपश्यसि। तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि॥ 5–33–11 यतः प्राप्तः सञ्जयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः। सर्वेन्द्रियाण्यप्रकृतिं गतानि किं वक्ष्यतीत्येव हि मेऽद्य प्रचिन्ता॥ 5–33–12 विदुर उवाच अभियुक्तं बलवता दुर्बलं हीनसाधनम्। हृतस्वं कामिनं चोरमाविशान्ति प्रजागराः॥ 5–33–13 कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप। कच्चिच्च परवित्तेषु गृध्यन्न परितप्यसे॥ 5–33–14 धृतराष्ट्र उवाच श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः। अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसम्मतः॥ 5–33–15 विदुर उवाच राजा लक्षणसम्पन्नस्त्रैलोक्यस्याधिपो भवेत्। प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः॥ 5–33–16 विपरीततरश्च त्वं भागधेये न सम्मतः। अर्चिषां प्रक्षयाच्चैव धर्मात्मा धर्मकोविदः॥ 5–33–17 आनृशंस्यादनुक्रोशाद्धर्मात्सत्यात्पराक्रमात्। गुरुत्वात्त्वयि सम्प्रेक्ष्य बहून्क्लेशांस्तितिक्षते॥ 5–33–18 दुर्योधने सौबले च कर्णे दुःशासने तथा। एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि॥ 5–33–19 आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता। @वाक्संयमश्च दानं च नैतेष्वेतानि कृत्स्नशः॥ एकस्माद्वृक्षाद्यज्ञपात्राणि राजन्स्रुक्च द्रोणी वोढनी पीडनी च। एतद्राजन्ब्रुवतो मे निबोध एकस्माद्वै जायतेऽसच्च सच्च॥@ यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते॥ 5–33–20 निषेवते प्रशस्तानि निन्दितानि न सेवते। अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम्॥ 5–33–21 क्रोधो हर्षश्च दर्पश्च ह्रीः स्तम्भो मान्यमानिता। यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते॥ 5–33–22 यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे। कृतमेवास्य जानन्ति स वै पण्डित उच्यते॥ 5–33–23 यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः। समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते॥ 5–33–24 यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते। कामादर्थं वृणीते यः स वै पण्डित उच्यते॥ 5–33–25 यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते। न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः॥ 5–33–26 क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थं भजते न कामात्। नासम्पृष्टो व्युपयुङ्क्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य॥ 5–33–27 नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम्। आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः॥ 5–33–28 निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः। अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते॥ 5–33–29 आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते। हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ॥ 5–33–30 न हृष्यत्यात्मसम्माने नावमानेन तप्यते। गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते॥ 5–33–31 तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम्। उपायज्ञो मनुष्याणां नरः पण्डित उच्यते॥ 5–33–32 प्रवृत्तवाक्चित्रकथ ऊहवान्प्रतिभानवान्। आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते॥ 5–33–33 @मनोज्ञस्सर्वभूतानां योगज्ञस्सर्वकर्मणाम्। उपायज्ञो मनुष्याणां स वै पण्डित उच्यते॥@ श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा। असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः॥ 5–33–34 अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः। अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः॥ 5–33–35 स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति। मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते॥ 5–33–36 अकामान्कामयति यः कामयानान्परित्यजेत्। बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम्॥ 5–33–37 अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च। कर्म चारभते दुष्टं तमाहुर्मूढचेतसम्॥ 5–33–38 संसारयति कृत्यानि सर्वत्र विचिकित्सते। चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ॥ 5–33–39 श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति। सुहृन्मित्रं न लभते तमाहुर्मूढचेतसम्॥ 5–33–40 अनाहूतः प्रविशति अपृष्टो बहु भाषते। अविश्वस्ते विश्वसिति मूढचेता नराधमः॥ 5–33–41 परं क्षिपति दोषेण वर्तमानः स्वयं तथा। यश्च क्रुध्यत्यनीशानः स च मूढतमो नरः॥ 5–33–42 आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम्। अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते॥ 5–33–43 अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते। कदर्यं भजते यश्च तमाहुर्मूढचेतसम्॥ 5–33–44 अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा। विचरत्यसमुन्नद्धो यः स पण्डित उच्यते॥ 5–33–45 एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम्। योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः॥ 5–33–46 एकः पापानि कुरुते फलं भुङ्क्ते महाजनः। भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते॥ 5–33–47 एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता। बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम्॥ 5–33–48 एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु। पञ्च जित्वा विदित्वा षट्सप्त हित्वा सुखी भव॥ 5–33–49 एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते। सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविप्लवः॥ 5–33–50 एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत्। एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात्॥ 5–33–51 एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे। सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव॥ 5–33–52 एकः क्षमावतां दोषो द्वितीयो नोपपद्यते। यदेनं क्षमया युक्तमशक्तं मन्यते जनः॥ 5–33–53 सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम्। क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं क्षमा॥ 5–33–54 क्षमा वशीकृतिर्लोके क्षमया किं न साध्यते। शान्तिखड्गः करे यस्य किं करिष्यति दुर्जनः॥ 5–33–55 अतृणे पतितो वह्निः स्वयमेवोपशाम्यति। अक्षमावान्परं दोषैरात्मानं चैव योजयेत्॥ 5–33–56 एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा। विद्यैका परमा तृप्तिरहिंसैका सुखावहा॥ 5–33–57 (पृथिव्यां सागरान्तायां द्वाविमौ पुरुषाधमौ। गृहस्थश्च निरारम्भः सारम्भश्चैव भिक्षुकः॥) द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव। राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्॥ 5–33–58 द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते। अब्रुवन्परुषं किञ्चिदसतोऽनर्चयंस्तथा॥ 5–33–59 द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ। स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः॥ 5–33–60 द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ। यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः॥ 5–33–61 द्वावेव न विराजेते विपरीतेन कर्मणा। गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः॥ 5–33–62 द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः। प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान्॥ 5–33–63 न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ। अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम्॥ 5–33–64 द्वावम्भसि निवेष्टव्यौ गले बद्ध्वा दृढां शिलाम्। धनवन्तमदातारं दरिद्रं चातपस्विनम्॥ 5–33–65 द्वाविमौ पुरुषव्याघ्र सूर्यमण्डलभेदिनौ। परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः॥ 5–33–66 त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ। कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः॥ 5–33–67 त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः। नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु॥ 5–33–68 त्रय एवाधना राजन्भार्या दासस्तथा सुतः। यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम्॥ 5–33–69 हरणं च परस्वानां परदाराभिमर्शनम्। सुहृदश्च परित्यागस्त्रयो दोषाः क्षयावहाः॥ 5–33–70 त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः। कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्॥ 5–33–71 भक्तं च भजमानं च तवास्मीति च वादिनम्। त्रीनेतांश्छरणं प्राप्तान्विषमेऽपि न सन्त्यजेत्॥ 5–33–72 वरप्रदानं राज्यं च पुत्रजन्म च भारत। शत्रोश्च मोक्षणं कृच्छ्रात्त्रीणि चैकं च तत्समम्॥ 5–33–73 चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात्। अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्न दीर्घसूत्रैरलसैश्चारणैश्च॥ 5–33–74 चत्वारि ते तात गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे। वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या॥ 5–33–75 चत्वार्याह महाराज साद्यस्कानि बृहस्पतिः। पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे॥ 5–33–76 देवतानां च सङ्कल्पमनुभावं च धीमताम्। विनयं कृतविद्यानां विनाशं पापकर्मणाम्॥ 5–33–77 चत्वारि कर्माण्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि। मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः॥ 5–33–78 पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः। पिता माताग्निरात्मा च गुरुश्च भरतर्षभ॥ 5–33–79 पञ्चैव पूजयँल्लोके यशः प्राप्नोति केवलम्। देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान्॥ 5–33–80 पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि। मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः॥ 5–33–81 पञ्चेन्द्रियस्य मर्त्यस्य च्छिद्रं चेदेकमिन्द्रियम्। ततोऽस्य स्रवति प्रज्ञा दृतेः पात्रादिवोदकम्॥ 5–33–82 षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता। निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता॥ 5–33–83 षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे। अप्रवक्तारमाचार्यमनधीयानमृत्विजम्॥ 5–33–84 अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्। ग्रामकामं च गोपालं वनकामं च नापितम्॥ 5–33–85 षडेव तु गुणाः पुंसा न हातव्याः कदाचन। सत्यं दानमनालस्यमनसूया क्षमा धृतिः॥ 5–33–86 ष़डिमानि विनश्यन्ति मुहूर्तमनवेक्षणात्। गावः सेवा कृषिर्भार्या विद्या वृषलसङ्गतिः॥ 5–33–87 षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम्। आचार्यं शिक्षिताः शिष्याः कृतदाराश्च मातरम्॥ 5–33–88 नारीं विगतकामास्तु कृतार्थाश्च प्रयोजकम्। नावं निस्तीर्णकान्तारा आतुराश्च चिकित्सकम्॥ 5–33–89 आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह सम्प्रयोगः। स्वप्रत्यया वृत्तिरभीतवासः षड्जीवलोकस्य सुखानि राजन्॥ 5–33–90 ईर्षुर्घृणी न सन्तुष्टः क्रोधनो नित्यशङ्कितः। परभाग्योपजीवी च षडेते नित्यदुःखिताः॥ 5–33–91 अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च। वश्यश्च पुत्रोऽर्थकरी च विद्या षड्जीवलोकस्य सुखानि राजन्॥ 5–33–92 षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति। न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः॥ 5–33–93 षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते। चौराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः॥ 5–33–94 प्रमदाः कामयानेषु यजमानेषु याजकाः। राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः॥ 5–33–95 सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः। प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः॥ 5–33–96 स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम्। महच्च दण्डपारुष्यमर्थदूषणमेव च॥ 5–33–97 अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः। ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते॥ 5–33–98 ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति। रमते निन्दया चैषां प्रशंसां नाभिनन्दति॥ 5–33–99 नैनान्स्मरति कृत्येषु याचितश्चाभ्यसूयति। एतान्दोषान्नरः प्राज्ञो बुध्येद्बुद्ध्वा विसर्जयेत्॥ 5–33–100 अष्टाविमानि हर्षस्य नवनीतानि भारत। वर्तमानानि दृश्यन्ते तान्येव स्वसुखान्यपि॥ 5–33–101 समागमश्च सखिभिर्महांश्चैव धनागमः। पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने॥ 5–33–102 समये च प्रियालापः स्वयूथ्येषु समुन्नतिः। अभिप्रेतस्य लाभश्च पूजा च जनसंसदि॥ 5–33–103 अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च। पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च॥ 5–33–104 नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम्। क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः॥ 5–33–105 दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान्। मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः॥ 5–33–106 त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश। तस्मादेतेषु सर्वेषु न प्रसज्जेत पण्डितः॥ 5–33–107 अत्रैवोदाहरन्तीममितिहासं पुरातनम्। पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना॥ 5–33–108 यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनं च। विशेषविच्छ्रुतवान्क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम्॥ 5–33–109 जानाति विश्वासयितुं मनुष्यान्विज्ञातदोषेषु दधाति दण्डम्। जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा॥ 5–33–110 सुदुर्बलं नावजानाति कञ्चिद्युक्तो रिपुं सेवते बुद्धिपूर्वम्। न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः॥ 5–33–111 प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः। दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥ 5–33–112 अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शनम्। दम्भं स्तैन्यं पैशुनं मद्यपानं न सेवते यश्च सुखी सदैव॥ 5–33–113 न संरम्भेणारभते त्रिवर्गमाकारितः शंसति तत्त्वमेव। न मित्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः॥ 5–33–114 न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति। नात्याह किञ्चित्क्षमते वै विवादं सर्वत्र तादृग्लभते प्रशंसाम्॥ 5–33–115 यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान्। न मूर्च्छितः कटुकान्याह किञ्चित्प्रियं सदा तं कुरुते जनो हि॥ 5–33–116 न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति नास्तमेति। न दुर्गतोऽस्मीति करोत्यकार्यं तमार्यशीलं परमाहुरार्याः॥ 5–33–117 न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रहृष्टः। दत्त्वा न पश्चात्कुरुतेऽनुतापं स कथ्यते सत्पुरुषार्यशीलः॥ 5–33–118 देशाचारान्समयाञ्जातिधर्मान्बुभूषते यः स परावरज्ञः। स यत्र तत्राभिगतः सदैव महाजनस्याधिपत्यं करोति॥ 5–33–119 दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम्। मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान्वर्जयेत्स प्रधानः॥ 5–33–120 दमं शौचं दैवतं मङ्गलानि प्रायश्चित्तान्विविधाँल्लोकवादान्। एतानि यः कुरुते नैत्यकानि तस्योत्थानं देवता राधयन्ति॥ 5–33–121 समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथां च। गुणैर्विशिष्टांश्च पुरो दधाति विपश्चितस्तस्य नयाः सुनीताः॥ 5–33–122 मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा। ददात्यमित्रेष्वपि याचितः संस्तमात्मवन्तं प्रजहत्यनर्थाः॥ 5–33–123 चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किञ्चित्। मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्य च्यवते कश्चिदर्थः॥ 5–33–124 यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्मानकृच्छुद्धभावः। अतीव स ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः॥ 5–33–125 य आत्मनापत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत। अनन्ततेजाः सुमनाः समाहितः स तेजसा सूर्य इवावभासते॥ 5–33–126 वने जाताः शापदग्धस्य राज्ञः पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः। त्वयैव बाला वर्धिताः शिक्षिताश्च तवादेशं पालयन्त्याम्बिकेय॥ 5–33–127 प्रदायैषामुचितं तात राज्यं सुखी पुत्रैः सहितो मोदमानः। न देवानां नापि च मानुषाणां भविष्यसि त्वं तर्कणीयो नरेन्द्र॥ 5–33–128 इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये त्रयस्त्रिंशोऽध्यायः॥ 33 ॥ चतुस्त्रिंशोऽध्यायः प्रजागरपर्व धृतराष्ट्रं प्रति विदुरस्य नीतियुतं वचनम् धृतराष्ट्र उवाच जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि। तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि॥ 5–34–1 त्वं मां यथावद्विदुर प्रशाधि प्रज्ञापूर्वं सर्वमजातशत्रोः। यन्मन्यसे पथ्यमदीनसत्त्व श्रेयस्करं ब्रूहि तद्वै कुरूणाम्॥ 5–34–2 पापाशङ्की पापमेवानुपश्यन्पृच्छामि त्वां व्याकुलेनात्मनाहम्। कवे तन्मे ब्रूहि सर्वं यथावन्मनीषितं सर्वमजातशत्रोः॥ 5–34–3 विदुर उवाच शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम्। अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभवम्॥ 5–34–4 तस्माद्वक्ष्यामि ते राजन् हितं यत्स्यात् कुरून्प्रति। वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे॥ 5–34–5 मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत। अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः॥ 5–34–6 तथैव योगविहितं यत्तु कर्म न सिध्यति। उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः॥ 5–34–7 अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु। सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत्॥ 5–34–8 अनुबन्धं च सम्प्रेक्ष्य विपाकं चैव कर्मणाम्। उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा॥ 5–34–9 यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये। कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते॥ 5–34–10 यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति। युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति॥ 5–34–11 न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम्। श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम्॥ 5–34–12 भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम्। लोभाभिपाती ग्रसते नानुबन्धमवेक्षते॥ 5–34–13 यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत्। हितं च परिणामे यत् तदाद्यं भूतिमिच्छता॥ 5–34–14 वनस्पतेरपक्वानि फलानि प्रचिनोति यः। स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति॥ 5–34–15 यस्तु पक्वमुपादत्ते काले परिणतं फलम्। फलाद्रसं स लभते बीजाच्चैव फलं पुनः॥ 5–34–16 यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः। तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया॥ 5–34–17 पुष्पं पुष्पं विचन्वीत मूलच्छेदं न कारयेत्। मालाकार इवारामे न यथाङ्गारकारकः॥ 5–34–18 किन्नु मे स्यादिदं कृत्वा किन्नु मे स्यादकुर्वतः। इति कर्माणि स़ञ्चिन्त्य कुर्याद्वा पुरुषो न वा॥ 5–34–19 अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथागताः। कृतः पुरुषकारो हि भवेद्येषु निरर्थकः॥ 5–34–20 @अनर्थे चैव निरतमर्थे चैव पराङ्मुखम्। अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा॥@ प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः। न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः॥ 5–34–21 कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान्। क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान्॥ 5–34–22 ऋजुः पश्यति यः सर्वं चक्षुषानु पिबन्निव। आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः॥ 5–34–23 सुपुष्पितः स्यादफलः फलितः स्याद्दुरारुहः। अपक्वः पक्वसङ्काशो न तु शीर्येत कर्हिचित्॥ 5–34–24 चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्। प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति॥ 5–34–25 यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव। सागरान्तामपि महीं लब्ध्वा स परिहीयते॥ 5–34–26 पितृपैतामहं राज्यं प्राप्तवान्स्वेन कर्मणा। वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः॥ 5–34–27 धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः। वसुधा वसुसम्पूर्णा वर्धते भूतिवर्धिनी॥ 5–34–28 अथ सन्त्यजतो धर्ममधर्मं चानुतिष्ठतः। प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा॥ 5–34–29 य एव यत्नः क्रियते परराष्ट्रविमर्दने। स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने॥ 5–34–30 धर्मेण राज्यं विन्देत धर्मेण परिपालयेत्। धर्ममूलां श्रियं प्राप्य न जहाति न हीयते॥ 5–34–31 अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः। सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम्॥ 5–34–32 सुव्याहृतानि सूक्तानि सुकृतानि ततस्ततः। सञ्चिन्वन्धीर आसीत शिलाहारी शिलं यथा॥ 5–34–33 गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः। चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः॥ 5–34–34 भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा। अथ या सुदुहा राजन्नैव तां वितुदन्त्यपि॥ 5–34–35 यदतप्तं प्रणमति न तत्सन्तापयन्त्यपि। यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि॥ 5–34–36 एतयोपमया धीरः सन्नमेत बलीयसे। इन्द्राय स प्रणमते नमते यो बलीयसे॥ 5–34–37 पर्जन्यनाथाः पशवो राजानो मन्त्रिबान्धवाः। पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः॥ 5–34–38 सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते। मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते॥ 5–34–39 मानेन रक्ष्यते धान्यमश्वान्रक्षत्यनुक्रमः। अभीक्ष्ण दर्शनाद् गावः स्त्रियो रक्ष्याः कुचेलतः॥ 5–34–40 न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः। अन्तेष्वपि हि जातानां वृत्तमेव विशिष्यते॥ 5–34–41 य ईर्षुः परवित्तेषु रूपे वीर्ये कुलान्वये। सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः॥ 5–34–42 अकार्यकरणाद्भीतः कार्याणां च विवर्जनात्। अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत्॥ 5–34–43 विद्यामदो धनमदस्तृतीयोऽभिजनो मदः। मदा एतेऽवलिप्तानामेत एव सतां दमाः॥ 5–34–44 असन्तोऽभ्यर्थिताः सद्भिः क्वचित्कार्ये कदाचन। तावन्न तस्य सुकृतं किञ्चित्कार्ये कदाचन। मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम्॥ 5–34–45 गतिरात्मवतां सन्तः सन्त एव सतां गतिः। असतां च गतिः सन्तो न त्वसन्तः सतां गतिः॥ 5–34–46 जिता सभा वस्त्रवता मिष्टाशा गोमता जिता। अध्वा जितो यानवता सर्वं शीलवता जितम्॥ 5–34–47 शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति। न तस्य जीवितेनार्थो न धनेन न बन्धुभिः॥ 5–34–48 आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम्। तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ॥ 5–34–49 सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा। क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा॥ 5–34–50 प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते। जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते॥ 5–34–51 अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम्। उत्तमानां तु मर्त्यानामवमानात्परं भयम्॥ 5–34–52 ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः। ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते॥ 5–34–53 इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः। तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव॥ 5–34–54 यो जितः पञ्चवर्गेण सहजेनात्मकर्षिणा। आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट्॥ 5–34–55 अविजित्य य आत्मानममात्यान्विजिगीषते। अमित्रान्वाजितामात्यः सोऽवशः परिहीयते॥ 5–34–56 आत्मानमेव प्रथमं द्वेष्यरूपेण यो जयेत्। ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते॥ 5–34–57 वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु। परीक्ष्य कारिणं धीरमत्यन्तं श्रीर्निषेवते॥ 5–34–58 रथः शरीरं पुरुषस्य राजन्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः। तैरप्रमत्तः कुशली सदश्वैर्दान्तैः सुखं याति रथीव धीरः॥ 5–34–59 एतान्यनिगृहीतानि व्यापादयितुमप्यलम्। अविधेया इवादान्ता हयाः पथि कुसारथिम्॥ 5–34–60 अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः। इन्द्रियैरजितैर्बालः सुदुःखं मन्यते सुखम्॥ 5–34–61 धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः। श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते॥ 5–34–62 अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः। इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः॥ 5–34–63 आत्मनाऽऽत्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः। आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः॥ 5–34–64 बन्धुरात्माऽऽत्मनस्तस्य येनैवात्माऽऽत्मना जितः। स एव नियतो बन्धुः स एवानियतो रिपुः॥ 5–34–65 क्षुद्राक्षेणेव जालेन झषावपिहितावुरू। कामश्च राजन्क्रोधश्च तौ प्रज्ञानं विलुम्पतः॥ 5–34–66 समवेक्ष्येह धर्मार्थौ सम्भारान्योऽधिगच्छति। स वै सम्भृतसम्भारः सततं सुखमेधते॥ 5–34–67 यः पञ्चाभ्यन्तराञ्छत्रूनविजित्य मनोमयान्। जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम्॥ 5–34–68 दृश्यन्ते हि महात्मानो बध्यमानाः स्वकर्मभिः। इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः॥ 5–34–69 असन्त्यागात्पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात्। शुष्केणार्द्रं दह्यते मिश्रभावात्तस्मात्पापैः सह सन्धिं न कुर्यात्॥ 5–34–70 निजानुत्पततः शत्रून्पञ्च पञ्चप्रयोजनान्। यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम्॥ 5–34–71 अनसूयाऽऽर्जवं शौचं सन्तोषः प्रियवादिता। दमः सत्यमनायासो न भवन्ति दुरात्मनाम्॥ 5–34–72 आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता। वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत॥ 5–34–73 आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान्। वक्ता पापमुपादत्ते क्षममाणो विमुच्यते॥ 5–34–74 हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम्। शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम्॥ 5–34–75 वाक्संयमो हि नृपते सुदुष्करतमो मतः। अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम्॥ 5–34–76 अभ्यावहति कल्याणं विविधं वाक्सुभाषिता। सैव दुर्भाषिता राजन्ननर्थायोपपद्यते॥ 5–34–77 रोहते सायकैर्विद्धं वनं परशुना हतम्। वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्॥ 5–34–78 कर्णिनालीकनाराचान्निर्हरन्ति शरीरतः। वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः॥ 5–34–79 वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि। परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेभ्यः॥ 5–34–80 यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्। बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति॥ 5–34–81 बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते। अनयो नयसङ्काशो हृदयान्नापसर्पति॥ 5–34–82 @न देवा यष्टिमादाय रक्षन्ति पशुपालवत्। यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम्॥@ सेयं बुद्धिः परीता ते पुत्राणां भरतर्षभ। पाण्डवानां विरोधेन न चैनानवबुध्यसे॥ 5–34–83 राजा लक्षणसम्पन्नस्त्रैलोक्यस्यापि यो भवेत्। शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः॥ 5–34–84 अतीत्य सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः। तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित्॥ 5–34–85 अनुक्रोशादानृशंस्याद्योऽसौ धर्मभृतां वरः। गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति॥ 5–34–86 इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये चतुस्त्रिंशोऽध्यायः॥ 34 ॥ पञ्चत्रिंशोऽध्यायः प्रजागरपर्व केशिनीनिमित्तकं सुधन्वविरोचनयोर्विवादमुपवर्ण्य विदुरेण धृतराष्ट्रं प्रति धर्मस्योपदेशः धृतराष्ट्र उवाच ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः। शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे॥ 5–35–1 विदुर उवाच सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम्। उभे त्वेते समे स्यातामार्जवं वा विशिष्यते॥ 5–35–2 आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो। इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि॥ 5–35–3 यावत्कीर्तिर्मनुष्यस्य पुण्या लोके प्रगीयते। तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते॥ 5–35–4 अत्राप्युदाहरन्तीममितिहासं पुरातनम्। विरोचनस्य संवादं केशिन्यर्थे सुधन्वना॥ 5–35–5 स्वयंवरे स्थिता कन्या केशिनी नाम नामतः। रूपेणाप्रतिमा राजन्विशिष्टपतिकाम्यया॥ 5–35–6 विरोचनोऽथ दैतेयस्तदा तत्राजगाम ह। प्राप्तुमिच्छंस्ततस्तत्र दैत्येन्द्रं प्राह केशिनी॥ 5–35–7 केशिन्युवाच किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन। अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति॥ 5–35–8 विरोचन उवाच प्राजापत्यास्तु वै श्रेष्ठा वयं केशिनि सत्तमाः। अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः॥ 5–35–9 केशिन्युवाच इहैवावां प्रतीक्षाव उपस्थाने विरोचन। सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ॥ 5–35–10 विरोचन उवाच तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे। सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ॥ 5–35–11 विदुर उवाच अतीतायां च शर्वर्यामुदिते सूर्यमण्डले। अथाजगाम तं देशं सुधन्वा राजसत्तम। विरोचनो यत्र विभो केशिन्या सहितः स्थितः॥ 5–35–12 सुधन्वा च समागच्छत्प्राह्रादिं केशिनीं तथा। समागतं द्विजं दृष्ट्वा केशिनी भरतर्षभ। प्रत्युत्थायासनं तस्मै पाद्यमर्घ्यं ददौ पुनः॥ 5–35–13 सुधन्वोवाच अन्वालभे हिरण्मयं प्राह्रादे ते वरासनम्। एकत्वमुपसम्पन्नो न त्वासेऽहं त्वया सह॥ 5–35–14 विरोचन उवाच तवार्हते तु फलकं कूर्चं वाप्यथवा बृसी। सुधन्वन्न त्वमर्होऽसि मया सह समासनम्॥ 5–35–15 सुधन्वोवाच पितापुत्रौ सहासीतां द्वौ विप्रौ क्षत्रियावपि। वृद्धौ वैश्यौ च शूद्रौ च न त्वन्यावितरेतरम्॥ 5–35–16 पिता हि ते समासीनमुपासीतैव मामधः। बालः सुखैधितो गेहे न त्वं किञ्चन बुध्यसे॥ 5–35–17 विरोचन उवाच हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः। सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः॥ 5–35–18 सुधन्वोवाच हिरण्यं च गवाश्वं च तवैवास्तु विरोचन। प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः॥ 5–35–19 विरोचन उवाच आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते। न तु देवेष्वहं स्थाता न मनुष्येषु कर्हिचित्॥ 5–35–20 सुधन्वोवाच पितरं ते गमिष्यावः प्राणयोर्विपणे कृते। पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत्॥ 5–35–21 विदुर उवाच एवं कृतपणौ क्रुद्धौ तत्राभिजग्मतुस्तदा। विरोचनसुधन्वानौ प्रह्रादो यत्र तिष्ठति॥ 5–35–22 प्रह्लाद उवाच इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह। आशीविषाविव क्रुद्धावेकमार्गाविहागतौ॥ 5–35–23 किं वै सहैवं चरथो न पुरा चरथः सह। विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना॥ 5–35–24 विरोचन उवाच न मे सुधन्वना सख्यं प्राणयोर्विपणावहे। प्रह्लाद तत्त्वं पृच्छामि मा प्रश्नमनृतं वदेः॥ 5–35–25 प्रह्लाद उवाच उदकं मधुपर्कं वाप्यानयन्तु सुधन्वने। ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता॥ 5–35–26 सुधन्वोवाच उदकं मधुपर्कं च पथिष्वेवार्पितं मम। प्रह्लाद त्वं तु मे तथ्यं प्रश्नं प्रब्रूहि पृच्छतः। किं ब्राह्मणाः स्विच्छ्रेयांस उताहो स्विद्विरोचनः॥ 5–35–27 @आदित्येन सहायान्तं प्रह्रादो हंसमब्रवीत्। धृतराष्ट्र महाप्राज्ञ सर्वज्ञं सर्वदर्शिनम्॥@ प्रह्लाद उवाच पुत्र एको मम ब्रह्मंस्त्वं च साक्षादिहास्थितः। तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत्॥ 5–35–28 सुधन्वोवाच गां प्रदद्यास्त्वौरसाय यद्वान्यत्स्यात्प्रियं धनम्। द्वयोर्विवदतोस्तथ्यं वाच्यं च मतिमंस्वया॥ 5–35–29 प्रह्लाद उवाच अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम्। एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत्॥ 5–35–30 @पृष्टो धर्म न विब्रूयाद्गोकर्णशिथिलं चरन्। धर्माद्भश्यति राजंस्तु नास्य लोकोऽस्ति न प्रजाः॥ धर्म एतान्संरुजति यथा नद्यनुकूलजान्॥ ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते। श्रेष्ठोऽर्ध तु हरेत्तत्र भवेत्पादश्च कर्तरि॥ पादस्तेषु सभासत्सु यत्र निन्द्यो न निन्द्यते॥ अनेन भवति श्रेष्ठो मुच्यन्ते च सभासदः। कर्तारमेनो गच्छेत्तु निन्द्यो यत्र हि निन्द्यते॥@ सुधन्वोवाच यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः। यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत्॥ 5–35–31 नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः। अमित्रान्भूयसः पश्येद्यः साक्ष्यमनृतं वदेत्॥ 5–35–32 @यां च रात्रिमभिद्रुग्धो यां च पुत्रे प्रिये मृते। सर्वस्वेन च यो हीनो दुर्विवक्ता तु तां वसेत्॥@ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते। शतमश्वानृते हन्ति सहस्रं पुरुषानृते॥ 5–35–33 हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्। सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेः॥ 5–35–34 प्रह्लाद उवाच मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन। मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः॥ 5–35–35 विरोचन सुधन्वायं प्राणानामीश्वरस्तव। सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम्॥ 5–35–36 सुधन्वोवाच यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः। पुनर्ददामि ते पुत्रं तस्मात्प्रह्लाद दुर्लभम्॥ 5–35–37 एष प्रह्लाद पुत्रस्ते मया दत्तो विरोचनः। पादप्रक्षालनं कुर्यात्कुमार्याः सन्निधौ मम॥ 5–35–38 विदुर उवाच तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि। मा गमः ससुतामात्यो नाशं पुत्रार्थमब्रुवन्॥ 5–35–39 न देवा दण्डमादाय रक्षन्ति पशुपालवत्। यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम्॥ 5–35–40 यथा यथा हि पुरुषः कल्याणे कुरुते मनः। तथा तथास्य सर्वार्थाः सिद्ध्यन्ते नात्र संशयः॥ 5–35–41 नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम्। नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले॥ 5–35–42 मद्यपानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम्। राजद्विष्टं स्त्रीपुंसयोर्विवादं वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः॥ 5–35–43 सामुद्रिकं वणिजं चोरपूर्वं शलाकधूर्तं च चिकित्सकं च। अरिं च मित्रं च कुशीलवं च नैतान्साक्ष्ये त्वधिकुर्वीत सप्त॥ 5–35–44 मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः। एतानि चत्वार्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि॥ 5–35–45 अगारदाही गरदः कुण्डाशी सोमविक्रयी। पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः॥ 5–35–46 भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः। अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः॥ 5–35–47 स्रुवप्रग्रहणो व्रात्यः कीनाशश्चात्मवानपि। रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महभिः समाः॥ 5–35–48 तृणोल्कया ज्ञायते जातरूपं वृत्तेन भद्रो व्यवहारेण साधुः। शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रेष्वापत्सु सुहृदश्चारयश्च॥ 5–35–49 जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया। क्रोधः श्रियं शीलमनार्यसेवा ह्रियं कामः सर्वमेवाभिमानः॥ 5–35–50 @न क्रोधिनोऽर्थो न नृशंसस्य मित्रं क्रूरस्य न स्त्री सुखिनो न विद्या। न कामिनो ह्रीरलसस्य न श्रीस्सर्व तु न स्यादनवस्थितस्य॥@ श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते। दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति॥ 5–35–51 अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च। पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च॥ 5–35–52 एतान्गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्य। राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेष गुणोऽतिभाति॥ 5–35–53 अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि। चत्वार्येषामन्ववेतानि सद्भिश्चत्वारि चैषामनुयान्ति सन्तः॥ 5–35–54 यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः। दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यनुयान्ति सन्तः॥ 5–35–55 इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा। अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥ 5–35–56 तत्र पूर्वचतुर्वर्गो दम्भार्थमपि सेव्यते। उत्तरश्च चतुर्वर्गो नामहात्मसु तिष्ठति॥ 5–35–57 न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम्। नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनाभ्युपेतम्॥ 5–35–58 सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम्। शौर्यं च चित्रभाष्यं च दशेमे स्वर्गयोनयः॥ 5–35–59 पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम्। पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमत्यन्तमश्नुते॥ 5–35–60 तस्मात्पापं न कुर्वीत पुरुषः शंसितव्रतः। पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः॥ 5–35–61 नष्टप्रज्ञः पापमेव नित्यमारभते नरः। पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः॥ 5–35–62 वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः। पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यं स्थानं स्म गच्छति। तस्मात्पुण्यं निषेवेत पुरुषः सुसमाहितः॥ 5–35–63 असूयको दन्दशूको निष्ठुरो वैरकृच्छठः। स कृच्छ्रं महदाप्नोति न चिरात्पापमाचरन्॥ 5–35–64 अनसूयुः कृतप्रज्ञः शोभनान्याचरन्सदा। नकृच्छ्रं महदाप्नोति सर्वत्र च विरोचते॥ 5–35–65 प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः। प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम्॥ 5–35–66 दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत्। अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत्॥ 5–35–67 पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत्। यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत्॥ 5–35–68 जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम्। शूरं विजितसङ्ग्रामं गतपारं तपस्विनम्॥ 5–35–69 धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते। असंवृतं तद्भवति ततोऽन्यदवदीर्यते॥ 5–35–70 गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम्। अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः॥ 5–35–71 ऋषीणां च नदीनां च कुलानां च महात्मनाम्। प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च॥ 5–35–72 द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी। क्षत्रियः शीलभाग्राजंश्चिरं पालयते महीम्॥ 5–35–73 सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः। शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्॥ 5–35–74 बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत। तानि जङ्घाजघन्यानि भारप्रत्यवराणि च॥ 5–35–75 दुर्योधनेऽथ शकुनौ मूढे दुःशासने तथा। कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि॥ 5–35–76 सर्वैर्गुणैरुपेतास्तु पाण्डवा भरतर्षभ। पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत्॥ 5–35–77 इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये पञ्चत्रिंशोऽध्यायः॥ 35 ॥ षट्त्रिंशोऽध्यायः प्रजागरपर्व दत्तात्रेयसाध्यदेवसंवादमुपस्थाप्य महाकुलीनानां लक्षणमुपवर्णयता विदुरेण धृतराष्ट्रं प्रत्युपदेशः विदुर उवाच अत्रैवोदाहरन्तीममितिहासं पुरातनम्। आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम्॥ 5–36–1 चरन्तं हंसरूपेण महर्षिं संशितव्रतम्। साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा॥ 5–36–2 साध्या ऊचुः साध्या देवा वयमेते महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम्। श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम्॥ 5–36–3 हंस उवाच एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः। ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मसमं नयीत॥ 5–36–4 आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति॥ 5–36–5 नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी। न चाभिमानी न च हीनवृत्तो रूक्षां वाचं रुशतीं वर्जयीत॥ 5–36–6 मर्माण्यस्थीनि हृदयं तथासून्रूक्षा वाचो निर्दहन्तीह पुंसाम्। तस्माद्वाचं रुशतीं रूक्षरूपां धर्मारामो नित्यशो वर्जयीत॥ 5–36–7 अरुन्तुदं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान्। विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निरृतिं वै वहन्तम्॥ 5–36–8 यश्चेदेद[परश्चेदेन]मभिविध्येत बाणैर्भृशं सुतीक्ष्णैरनलार्कदीप्तैः। स विध्यमानोऽप्यतिदह्यमानो विद्यात्कविः सुकृतं मे दधाति॥ 5–36–9 यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव। वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति॥ 5–36–10 अतिवादं न प्रवदेन्न वादयेद्योऽनाहतःप्रतिहन्यान्न घातयेत्। हन्तुं च यो नेच्छति पापकं वै तस्मै देवाः स्पृहयन्त्यागताय॥ 5–36–11 अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम्। प्रियं वदेद्व्याहृतं तत्तृतीयं धर्मं वदेद्व्याहृतं तच्चतुर्थम्॥ 5–36–12 यादृशैः सन्निविशते यादृशांश्चोपसेवते। यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः॥ 5–36–13 यतो यतो निवर्तते ततस्ततो विमुच्यते। निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि॥ 5–36–14 न जीयते चानुजिगीषतेऽन्यान्न वैरकृच्चाप्रतिघातकश्च। निन्दाप्रशंसासु समस्वभावो न शोचते हृष्यति नैव चायम्॥ 5–36–15 भावमिच्छति सर्वस्य नाभावे कुरुते मनः। सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः॥ 5–36–16 नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च। रन्ध्रं परस्य जानाति यः स मध्यमपूरुषः॥ 5–36–17 दुःशासनस्तूपहतोऽभिशस्तो नावर्तते मन्युवशात्कृतघ्नः। न कस्यचिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः॥ 5–36–18 न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः। निराकरोति मित्राणि यो वै सोऽधमपूरुषः॥ 5–36–19 उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान्। अधमांस्तु न सेवेत य इच्छेद्भूतिमात्मनः॥ 5–36–20 प्राप्नोति वै वित्तमयम्ब[सद्ब]लेन नित्योत्थानात्प्रज्ञया पौरुषेण। न त्वेव सम्यग्लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम्॥ 5–36–21 धृतराष्ट्र उवाच महाकुलेभ्यः स्पृहयन्ति देवा धर्मार्थनित्याश्च बहुश्रुताश्च। पृच्छामि त्वां विदुर प्रश्नमेतं भवन्ति वै कानि महाकुलानि॥ 5–36–22 विदुर उवाच तपो दमो ब्रह्मवित्तं वितानाः पुण्या विवाहाः सततञ्चा[ता]न्नदानम्। येष्वेवैते सप्त गुणा वसन्ति सम्यग्वृत्तास्तानि महाकुलानि॥ 5–36–23 येषां वृत्तेन[हि वृत्तं] व्यथते न योनिश्चित्तप्रसादेन चरन्ति धर्मम्। ते कीर्तिमिच्छन्ति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि॥ 5–36–24 अनिज्यया कुविवाहैर्वेदस्योत्सादनेन च। कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च॥ 5–36–25 देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च। कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च॥ 5–36–26 ब्राह्मणानां परिभवात्परिवादाच्च भारत। कुलान्यकुलतां यान्ति न्यासापहरणेन च॥ 5–36–27 कुलानि समुपेतानि गोभिः पुरुषतोऽर्थतः। कुलसङ्ख्यां न गच्छन्ति यानि हीनानि वृत्ततः॥ 5–36–28 वृत्ततस्त्वविहीनापि कुलान्यल्पधनान्यपि। कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद्यशः॥ 5–36–29 वृत्तं यत्नेन संरक्षेद्वित्तमेति च याति च। अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥ 5–36–30 गोभिः पशुभिरश्वैश्च कृष्या च सुसमृद्धया। कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः॥ 5–36–31 मा नः कुले वैरकृत्कश्चिदस्तु राजामात्यो मा परस्वापहारी। मित्रद्रोही नैकृतिकोऽनृती वा पूर्वाशी वा पितृदेवातिथिभ्यः॥ 5–36–32 यश्च नो ब्रह्मणान्हन्याद्यश्च नो ब्राह्मणान्द्विषेत्। न तस्य[नः स] समितिं गच्छेद्यश्च नो निर्वपेत्कृषीन्[पितॄन्]॥ 5–36–33 तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता। सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन॥ 5–36–34 श्रद्धया परया राजन्नुपनीतानि सत्कृतिम्। प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मिणाम्॥ 5–36–35 सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै शक्तो वोढुं न तथान्ये महीजाः। एवं युक्ता भारसहा भवन्ति महाकुलीना न तथान्ये मनुष्याः॥ 5–36–36 न तन्मित्रं यस्य कोपाद्बिभेति यद्वा मित्रं शङ्कितेनोपचर्यम्। यस्मिन्मित्रे पितरीवाश्वसीत तद्वै मित्रं सङ्गतानीतराणि॥ 5–36–37 यः कश्चिदप्यसम्बद्धो मित्रभावेन वर्तते। स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम्॥ 5–36–38 चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः। पारिप्लवमतेर्नित्यमध्रुवो मित्रसङ्ग्रहः॥ 5–36–39 चलचित्तमनात्मानमिन्द्रियाणां वशानुगम्। अर्थाः समति[भि]वर्तन्ते हंसाः शुष्कं सरो यथा॥ 5–36–40 अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः। शीलमेतदसाधूनामभ्र[भ्रं] पारिप्लवं यथा॥ 5–36–41 सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये। तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते॥ 5–36–42 अर्चयेदेव मित्राणि सति वासति वा धने। नानर्थयन्प्रजानाति मित्राणां सारफल्गुताम्॥ 5–36–43 सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम्। सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृच्छति॥ 5–36–44 अनवाप्यं च शोकेन शरीरं चोपतप्यते। अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः॥ 5–36–45 पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते च। पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते च॥ 5–36–46 सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च। पर्यायशः सर्वमेते स्पृशन्ति तस्माद्धीरो न च हृष्येन्न शोचेत्॥ 5–36–47 चलानि हीमानि षडिन्द्रियाणि तेषां यद्यद्वर्धते यत्र यत्र। ततस्ततः स्रवते बुद्धिरस्य छिद्रोदकुम्भादिव नित्यमम्भः॥ 5–36–48 धृतराष्ट्र उवाच तनुरुद्धः शिखी राजा मिथ्योपचरितो मया। मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति॥ 5–36–49 नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः। यत्तत्पदमनुद्विग्नं तन्मे वद महामते॥ 5–36–50 विदुर उवाच नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात्। नान्यप्र[त्र] लोभसन्त्यागाच्छान्तिं पश्यामि तेऽनघ॥ 5–36–51 बुद्ध्या भयं प्रणुदति तपसा विन्दते महत्। गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति॥ 5–36–52 अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः। रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः॥ 5–36–53 स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः। तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते॥ 5–36–54 स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते। न स्त्रीषु राजन्रतिमाप्नुवन्ति न मागधैः स्तूयमाना न सूतैः॥ 5–36–55 न वै भिन्ना जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भिन्नाः। न वै भिन्ना गौरवं प्राप्नुवन्ति न वै भिन्नाः प्रशमं रोचयन्ति॥ 5–36–56 न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नैव तेषाम्। भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किञ्चिदन्यद्विनाशात्॥ 5–36–57 सम्पन्नं गोषु सम्भाव्यं सम्भाव्यं ब्राह्मणे तपः। सम्भाव्यं चापलं स्त्रीषु सम्भाव्यं ज्ञातितो भयम्॥ 5–36–58 तन्तवः प्यायिता नित्यं तनवो बहुलाः समाः। बद्ध[हू]न्बहुत्वादायासान्सहन्तीत्युपमा सताम्॥ 5–36–59 धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च। धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ॥ 5–36–60 ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च। वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते॥ 5–36–61 महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः। प्रसह्य एव वातेन सस्कन्धो मर्दितुं क्षणात्॥ 5–36–62 अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः। ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात्॥ 5–36–63 एवं मनुष्यमप्येकं गुणैरपि समन्वितम्। शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम्॥ 5–36–64 अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च। ज्ञातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत॥ 5–36–65 अवध्या ब्राह्मणा गावो ज्ञातयः शिशवः स्त्रियः। येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः॥ 5–36–66 न मनुष्ये गुणः कश्चिद्राजन्सधनतामृते। अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः॥ 5–36–67 अव्याधिजं कटुकं शीर्षरोगि पापानुबन्धं परुषं तीक्ष्णमुष्णम्। सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य॥ 5–36–68 रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्त्वम्। दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान्न सौख्यम्॥ 5–36–69 पुरा ह्युक्तं नाकरोस्त्वं वचो मे द्यूते जितां द्रौपदीं प्रेक्ष्य राजन्। दुर्योधनं वारयेत्यक्षवत्यां कितवत्वं पण्डिता वर्जयन्ति॥ 5–36–70 न तद्बलं यन्मृदुना विरुध्यते सूक्ष्मो हि धर्मस्तरसा सेवितव्यः। प्रध्वंसिनी क्रूरसमाहिता श्रीर्मृदुप्रौढा गच्छति पुत्रपौत्रान्॥ 5–36–71 धार्तराष्ट्राः पाण्डवान्पालयन्तु पाण्डोः सुतास्तव पुत्रांश्च पान्तु। एकारिमित्राः कुरवो ह्येकधर्मा[कार्या] जीवन्तु राजन्सुखिनः समृद्धाः॥ 5–36–72 मेढीभूतः कौरवाणां त्वमद्य त्वय्याधीनं कुरुकुलमाजमीढ। पार्थान्बालान्वनवासप्रतप्तान्गोपायस्व स्वं यशस्तात रक्षन्॥ 5–36–73 सन्धत्स्व त्वं कौरवान्[व] पाण्डुपुत्रैर्मा तेऽन्तरं रिपवः प्रार्थयन्तु। सत्ये स्थितास्ते नरदेव सर्वे दुर्योधनं स्थापय त्वं नरेन्द्र॥ 5–36–74 इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरहितवाक्ये षट्त्रिंशोऽध्यायः॥ 36 ॥ सप्तत्रिंशोऽध्यायः प्रजागरपर्व धृतराष्ट्राय विदुरस्य हितोपदेशः विदुर उवाच सप्तदशेमान्राजेन्द्र मनुः स्वायम्भुवोऽब्रवीत्। वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः॥ 5–37–1 दानवेन्द्रस्य च धनुरनाम्यं नमतोऽब्रवीत्। अथो मरीचिनः पादानग्राह्यान्गृह्णतस्तथा॥ 5–37–2 यश्चाशिष्यं शास्ति वै यश्च तुष्येद्यश्चातिवेलं भजते द्विषन्तम्। स्त्रियश्च यो रक्षति भद्रमश्नुते यश्चायाच्यं याचते कत्थते च॥ 5–37–3 यश्चाभिजातः प्रकरोत्यकार्यं यश्चाबलो बलिना नित्यवैरी। अश्रद्दधानाय च यो ब्रवीति यश्चाकाम्यं कामयते नरेन्द्र॥ 5–37–4 वध्वावहासं श्वशुरो मन्यते यो वध्वा वसन्नभयो मानकामः। परक्षेत्रे निर्वपति स्वबीजं स्त्रियं च यः परिवदतेऽतिवेलम्॥ 5–37–5 यश्चापि लब्ध्वा न स्मरामीति वादी दत्त्वा च यः कत्थति याच्यमानः। यश्चासतः सत्त्वमुपानयीत ह्ये[ए]तान्नयन्ति निरयं पाशहस्ताः॥ 5–37–6 यस्मिन्यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः। मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युपेयः॥ 5–37–7 जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया। कामो ह्रियं वृत्तमनार्यसेवा क्रोधः श्रियं सर्वमेवाभिमानः॥ 5–37–8 धृतराष्ट्र उवाच शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा। नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना॥ 5–37–9 विदुर उवाच अतिमानोऽतिवादश्च तथात्यागो नराधिप। क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट्॥ 5–37–10 एत एवासयस्तीक्ष्णा कृन्तन्त्यायूंषि देहिनाम्। एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते॥ 5–37–11 विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः। वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत॥ 5–37–12 आदेशकृद्वृत्तिहन्ता द्विजानां प्रेषकश्च यः। शरणागतहा चैव सर्वे ब्रह्महणः समाः। एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः॥ 5–37–13 गृहीतवाक्यो नयविद्वदान्यः शेषान्नभोक्ता ह्यविहिंसकश्च। नानर्थकृत्याकुशलः[कुलितः] कृतज्ञः सत्यो मृदुः स्वर्गमुपैति विद्वान्॥ 5–37–14 सुलभाः पुरुषा राजन्सततं प्रियवादिनः। अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः॥ 5–37–15 यो हि धर्मं समाश्रित्य हित्वा भर्तुः प्रियाप्रिये। अप्रियाण्याह पथ्यानि तेन राजा सहायवान्॥ 5–37–16 त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे ह्या[आ]त्मार्थे पृथिवीं त्यजेत्॥ 5–37–17 आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि। आत्मानं सततं रक्षेद्दारैरपि धनैरपि॥ 5–37–18 द्यूतमेतत्पुराकल्पे दृष्टं वैरकरं नृणाम्। तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान्॥ 5–37–19 उक्तं मया द्यूतकालेऽपि राजन्नेहा[दं] युक्तं वचनं प्रातिपेय। तदौषधं पथ्यमिवातुरस्य न रोचते तव वैचित्रवीर्य॥ 5–37–20 काकैरिमांश्चित्रबर्हान्मयूरान्पराजयेथाः पाण्डवान्धार्तराष्ट्रैः। हित्वा सिंहान्क्रोष्टुकान्गूहमानः प्राप्ते काले शोचिता त्वं नरेन्द्र॥ 5–37–21 यस्तात न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य। तस्मिन्भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति॥ 5–37–22 न भृत्यानां वृत्तिसंरोधनेन राज्यं धनं सञ्जिघृक्षेदपूर्वम्। त्यजन्ति ह्येनं वञ्चिता वै विरुद्धाः स्निग्धा ह्यमात्याः परिहीनभोगाः॥ 5–37–23 कृत्यानि पूर्वं परिसङ्ख्याय सर्वाण्यायव्यये चानुरूपां च वृत्तिम्। सङ्गृह्णीयादनुरूपान्सहायान्सहायसाध्यानि हि दुष्कराणि॥ 5–37–24 अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्री। वक्ता हितानामनुरक्त आर्य[र्यः] शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः॥ 5–37–25 वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः। प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक्त्वरयैव भृत्यः॥ 5–37–26 अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहार्यमन्यैः। अरोगजातीयमुदारवाक्यं भृत्यं[दूतं] वदन्त्यष्टगुणोपपन्नम्॥ 5–37–27 न विश्वासाज्जातु परस्य गेहे गच्छेन्नरश्चेतयानो विकाले। न चत्वरे निशि तिष्ठेन्निगूढो न राजकाम्यां योषितं प्रार्थयीत॥ 5–37–28 न निह्नवं मन्त्रगतस्य गच्छेत्संसृष्टमन्त्रस्य कुसङ्गतस्य। न च ब्रूयान्नाश्वसिमि त्वयीति सकारणं व्यपदेशं तु कुर्यात्॥ 5–37–29 घृणी राजा पुंश्चली राजभृत्यः पुत्रो भ्राता विधवा बालपुत्रा। सेनाजीवी चोद्धृतभूतिरेव व्यवहारेषु वर्जनीयाः स्युरेते॥ 5–37–30 अष्टौ गुणास्तात पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च श्रुतं दमश्च। पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च॥ 5–37–31 एतान्गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्य। राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेष गुणो बिभर्ति॥ 5–37–32 गुणा दश स्नानशीलं भजन्ते बलं रूपं स्वरवर्णप्रशुद्धिः। स्पर्शश्च गन्धश्च विशुद्धता च श्रीः सौकुमार्यं प्रवराश्च नार्यः॥ 5–37–33 गुणाश्च षण्मितभुक्तं भजन्ते ह्या[आ]रोग्यमायुश्च बलं सुखं च। अनाविलं चास्य भवत्यपत्यं न चैनमाद्यून इति क्षिपन्ति ॥ 5–37–34 अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम्। अदेशकालज्ञमनिष्टवेषमेतान्गृहे न प्रतिवासयेत॥ 5–37–35 कदर्यमाक्रोशकमश्रुतं च वनौकसं धूर्तममान्यमानिनम्। निष्ठूरिणं दृढ[कृत]वैरं कृतघ्नमेतान्भृशार्तोऽपि न जातु याचेत्॥ 5–37–36 सङ्क्लिष्टकर्माणमतिप्रमादं नित्यानृतं चादृढभक्तिकं च। विसृष्टरागं प्रभु[पटु]मानिनं चाप्येतान्न सेवेत नराधमान्षट्॥ 5–37–37 सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः। अन्योन्यबन्धनावेतौ विनान्योन्यं न सिद्ध्यतः॥ 5–37–38 उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय काञ्चित्। स्थाने कुमारीः प्रतिपाद्य सर्वा ह्य[अ]रण्यसंस्थोऽथ मुनिर्बुभूषेत्॥ 5–37–39 हितं यत्सर्वभूतानामात्मनश्च सुखावहम्। तत्कुर्यादीश्वरे ह्येतन्मूलं सर्वार्थसिद्धये॥ 5–37–40 बुद्धिः[वृद्धिः] प्रभावस्तेजश्च सत्त्वमुत्थानमेव च। व्यवसायश्च यस्य स्यात्तस्य[तस्या]वृत्तिभयं कुतः॥ 5–37–41 पश्य दोषान्पाण्डवैर्विग्रहे त्वं यत्र व्यथेयुरपि देवाः सशक्राः। पुत्रैर्वैरं नित्यमुद्विग्नवासो यशःप्रणाशो द्विषतां च हर्षः॥ 5–37–42 भीष्मस्य कोपस्तव चैवेन्द्रकल्प द्रोणस्य राज्ञश्च युधिष्ठिरस्य। उत्सादयेल्लोकमिमं प्रवृद्धः श्वेतो ग्रहस्तिर्यगिवापतन्खे॥ 5–37–43 तव पुत्रशतं चैव कर्णः पञ्च च पाण़्डवाः। पृथिवीमनुशासेयुरखिलां सागराम्बराम्॥ 5–37–44 धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः। मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशन्वनात्॥ 5–37–45 न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम्। वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम्॥ 5–37–46 न तथेच्छन्ति कल्याणान्परेषां वेदितुं गुणान्। यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः॥ 5–37–47 अर्थे[र्थ]सिद्धिं परामिच्छन्धर्ममेवादितश्चरेत्। न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम्॥ 5–37–48 यस्यात्मा विरतः पापात्कल्याणे च निवेशितः। तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या॥ 5–37–49 यो धर्ममर्थं कामं च यथाकालं निषेवते। धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति॥ 5–37–50 सन्नियच्छति यो वेगमुत्थितं क्रोधहर्षयोः। स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति॥ 5–37–51 बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे। यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते॥ 5–37–52 अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते। तृतीयं धनलाभं तु बलमाहुर्मनीषिणः॥ 5–37–53 यत्त्वस्य सहजं राजन्पितृपैतामहं बलम्। अभिजातबलं नाम तच्चतुर्थं बलं स्मृतम्॥ 5–37–54 येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत। यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते॥ 5–37–55 महते योऽपकाराय नरस्य प्रभवेन्नरः। तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत्॥ 5–37–56 स्त्रीषु राजसु सर्वे[र्पे]षु स्वाध्यायप्रभुशत्रुषु। भोगेष्वायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति॥ 5–37–57 प्रज्ञाशरेणाभिहतस्य जन्तोश्चिकित्सकाः सन्ति न चौषधानि। न होममन्त्रा न च मङ्गलानि नाथर्वणा नाप्यगदाः सुसिद्धाः॥ 5–37–58 सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत। नावज्ञेया मनुष्येण सर्वे ह्येतेऽतितेजसः॥ 5–37–59 अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु। न चोपयुङ्क्ते तद्दारु यावन्नोद्दीप्यते परैः॥ 5–37–60 स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते। तद्दारु च वनं चान्यन्निर्दहत्याशु तेजसा॥ 5–37–61 एवमेव कुले जाताः पावकोपमतेजसः। क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते॥ 5–37–62 लताधर्मा सपुत्र त्वं[त्वं सपुत्रः] सा[शा]लाः पाण्डुसुता मताः। न लता वर्धते जातु महाद्रुममनाश्रिता॥ 5–37–63 वनं राजंस्त्वं स[स्तव] पुत्रोऽऽम्बिकेय सिंहान्वने पाण्डवांस्तात विद्धि। सिंहैर्विहीनं हि वनं विनश्येत्सिंहा विनश्येयुरृते वनेन॥ 5–37–64 इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरहितवाक्ये सप्तत्रिंशोऽध्यायः॥ 37 ॥ अष्टात्रिंशोऽध्यायः प्रजागरपर्व विदुरस्य नीतिपूर्ण उपदेशः विदुर उवाच ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते॥ 5–38–1 पीठं दत्त्वा साधवेऽभ्यागताय ह्या[आ]नीयापः परिनिर्णिज्य पादौ। सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां ततो दद्यादन्नमवेक्ष्य धीरः॥ 5–38–2 यस्योदकं मधुपर्कं च गां च न मन्त्रवित्प्रतिगृह्णाति गेहे। लोभाद्भयादथ कार्पण्यतो वा तस्यानर्थं जीवितमाहुरार्याः॥ 5–38–3 चिकित्सकः शल्यकर्तावकीर्णा[र्णी] स्तेनः क्रूरो मद्यपो भ्रूणहा च। सेनाजीवी श्रुतिविक्रायकश्च भृशं प्रियोऽप्यतिथिर्नोदकार्हः॥ 5–38–4 अविक्रयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च। तिला मांसं फलमूलानि शाकं रक्तं वासः सर्वगन्धा गुडाश्च॥ 5–38–5 अरोषणो यः समलोष्टाश्मकाञ्चनः प्रहीणशोको गतसन्धिविग्रहः। निन्दाप्रशंसोपरतः प्रियाप्रिये त्यजन्नुदासीनवदेष भिक्षुकः॥ 5–38–6 नीवारमूलेङ्गुदशाकवृत्तिः सुसंयतात्माग्निकार्येषु चोद्यः। वने वसन्नतिथिष्वप्रमत्तो धुरन्धरः पुण्यकृदेष तापसः॥ 5–38–7 अपकृत्य बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत्। दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः॥ 5–38–8 न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्। विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति॥ 5–38–9 अनीर्षुर्गुप्तदारश्च संविभागी प्रियंवदः। श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत्॥ 5–38–10 पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः। स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः॥ 5–38–11 पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम्। गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत्॥ 5–38–12 भृत्यैर्वाणिज्यचारं च पुत्रैः सेवेत च द्विजान्। अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्॥ 5–38–13 तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति। नित्यं सन्तः कुले जाताः पावकोपमतेजसः॥ 5–38–14 क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते। यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये॥ 5–38–15 स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते। करिष्यन्न प्रभाषेत कृतान्येव तु दर्शयेत्॥ 5–38–16 धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते। गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः॥ 5–38–17 अरण्ये निःशलाके वा तत्र मन्त्रोऽभिधीयते। नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम्॥ 5–38–18 अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान्। नापरीक्ष्य महीपालः कुर्यात्सचिवमात्मनः॥ 5–38–19 अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च। कृतानि सर्वकार्याणि यस्य पारिषदा विदुः॥ 5–38–20 धर्मे चार्थे च कामे च स राजा राजसत्तमः। गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम्॥ 5–38–21 अप्रशस्तानि कार्याणि यो मोहादनुतिष्ठति। स तेषां विपरिभ्रंशाद्भ्र[भ्रं]श्यते जीवितादपि॥ 5–38–22 कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम्। तेषामेवाननुष्ठानं पश्चात्तापकरं मतम्॥ 5–38–23 अनधीत्य यथा वेदान्न विप्रः श्राद्धमर्हति। एवमश्रुतषाड्गुण्यो न मन्त्रं श्रोतुमर्हति॥ 5–38–24 स्थानवृद्धिक्षयज्ञस्य षाड्गुण्यविदितात्मनः। अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप॥ 5–38–25 अमोघक्रोधहर्षस्य स्वयं कृत्यान्य[न्व]वेक्षिणः। आत्मप्रत्ययकोशस्य स्वधीनेयं[वसुदैव] वसुन्धरा॥ 5–38–26 न स क्षयो महाराज यः क्षयो वृद्धिमावहेत्। नाममात्रेण तुष्येत छत्रेण च महीपतिः। भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत्॥ 5–38–27 ब्राह्मणं ब्राह्मणो वेद भर्ता वेद स्त्रियं तथा। अमात्यं नृपतिर्वेद राजा राजानमेव च॥ 5–38–28 न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः। न्यग्भूत्वा पर्युपासीत वध्यं हन्याद्बले सति। अहताद्धि भयं तस्माज्जायते न चिरादिव॥ 5–38–29 दैवतेषु प्रयत्नेन राजसु ब्राह्मणेषु च। नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च॥ 5–38–30 निरर्थ[र्थं] कलहं प्राज्ञो वर्जयेन्मूढसेवितम्। कीर्तिं च लभते लोके न चानर्थेन युज्यते॥ 5–38–31 प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः। न तं भर्तारमिच्छन्ति षण्डं[ण्ढं] पतिमिव स्त्रियः॥ 5–38–32 न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये। लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः॥ 5–38–33 विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत। धनाभिजातवृद्धांश्च नित्यं मूढोऽवमन्यते॥ 5–38–34 अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम्। अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा॥ 5–38–35 अविसंवादनं दानं समयस्याव्यतिक्रमः। आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक्॥ 5–38–36 अविसंवादको दक्षः कृतज्ञो मतिमानृजुः। अपि सङ्क्षीणकोशोऽपि लभते परिवारणम्॥ 5–38–37 धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा। मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः॥ 5–38–38 असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः। तादृङ्नराधिपो लोके वर्जनीयो नराधिप॥ 5–38–39 न च रात्रौ सुखं शेते ससर्प इव वेश्मनि। यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम्॥ 5–38–40 येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत। सदा प्रसादनं तेषां देवतानामिवाचरेत्॥ 5–38–41 येऽर्थाः स्त्रीषु समायुक्ताः प्रमत्तपतितेषु च। ये चानार्य[र्ये] समायु[स]क्ताः सर्वे ते संशयं गताः॥ 5–38–42 यत्र स्त्री यत्र कितवो बालो यत्रानुशासिता। मज्जन्ति तेऽवशा राजन्नद्यामश्मप्लवा इव॥ 5–38–43 प्रयोजनेषु ये सक्ता न विशेषेषु भारत। तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः॥ 5–38–44 यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः। यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः॥ 5–38–45 हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः। आहितं भारतैश्वर्यं त्वया दुर्योधने महत्॥ 5–38–46 तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वमचिरादिव। ऐश्वर्यमदसम्मूढं बलिं लोकत्रयादिव॥ 5–38–47 इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये अष्टात्रिंशोऽध्यायः॥ 38 ॥ एकोनचत्वारिंशोऽध्यायः प्रजागरपर्व धृतराष्ट्रं प्रति विदुरस्य नीतियुक्त उपदेशः धृतराष्ट्र उवाच अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा। धात्रा तु दिष्टस्य वशे कृतोऽयं तस्माद्वद त्वं श्रवणे धृतोऽहम्॥ 5–39–1 विदुर उवाच अप्राप्तकाले[लं] वचनं बृहस्पतिरपि ब्रुवन्। लभते बुद्ध्यवज्ञानमवमानं च भारत॥ 5–39–2 प्रियो भवति दानेन प्रियवादेन चापरः। मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः॥ 5–39–3 द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः। प्रिये शुभानि कार्याणि द्वेष्ये पापानि चैव हि[ह]॥ 5–39–4 उक्तं मया जातमात्रेऽपि राजन्दुर्योधनं त्यज पुत्रं त्वमेकम्। तस्य त्यागात्पुत्रशतस्य वृद्धिरस्यात्यागात्पुत्रशतस्य नाशः॥ 5–39–5 न वृद्धिर्बहु मन्तव्या या वृद्धिः क्षयमावहेत्। क्षयोऽपि बहु मन्तव्यो यः क्षयो वृद्धिमावहेत्॥ 5–39–6 न स क्षयो महाराज यः क्षयो वृद्धिमावहेत्। क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत्॥ 5–39–7 समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे। धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जय॥ 5–39–8 धृतराष्ट्र उवाच सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसम्मतम्। न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः॥ 5–39–9 विदुर उवाच अतीवगुणसम्पन्नो न जातु विनयान्वितः। सुसूक्ष्ममपि भूतानामुपमर्दमुपेक्षते॥ 5–39–10 परापवादनिरताः परदुःखोदयेषु च। परस्परविरोधे च यतन्ते सततोत्थिताः॥ 5–39–11 सदोषं दर्शनं येषां संवासे सुमहद्भयम्। अर्थादाने महान्दोषः प्रदाने च महद्भयम्॥ 5–39–12 ये वै भेदनशीलास्तु सकामा निस्त्रपाः शठाः। ये पापा इति विख्याताः संवासे परिगर्हिताः॥ 5–39–13 युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत्। निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति॥ 5–39–14 या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम्। यतते चापवादाय यत्नमारभते क्षये॥ 5–39–15 अल्पेऽप्यपकृते मोहान्न शान्तिमधिगच्छति। तादृशैः सङ्गतं नीचैर्नृशंसैरकृतात्मभिः॥ 5–39–16 निशम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत्। यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम्॥ 5–39–17 स पुत्रपशुभिर्वृद्धिं श्रेयश्चानन्त्यमश्नुते। ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम्॥ 5–39–18 कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर। श्रेयसा योक्ष्यते राजन्कुर्वाणो ज्ञातिसत्क्रियाम्॥ 5–39–19 विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ। किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः॥ 5–39–20 प्रसादं कुरु वीराणां पाण्डवानां विशाम्पते। दीयन्तां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर॥ 5–39–21 एवं लोके यशः प्राप्तं भविष्यति नराधिप। वृद्धेन हि त्वया कार्यं पुत्राणां तात शासनम्॥ 5–39–22 मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम्। ज्ञातिभिर्विग्रहस्तात न कर्तव्यः शुभार्थिना। सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ॥ 5–39–23 सम्भोजनं सङ्कथनं सम्प्रीतिश्च परस्परम्। ज्ञातिभिः सह कार्याणि न विरोधः कदाचन॥ 5–39–24 ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च। सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च॥ 5–39–25 सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद। अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि॥ 5–39–26 श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति। दिग्धहस्तं मृग इव स एनस्तस्य विन्दति॥ 5–39–27 पश्चादपि नरश्रेष्ठ तव तापो भविष्यति। तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय॥ 5–39–28 येन खट्वां समारूढः परितप्येत कर्मणा। आदावेव न तत्कुर्यादध्रुवे जीविते सति॥ 5–39–29 न कश्चिन्नापनयति[ते] पुमानन्यत्र भार्गवात्। शेषसम्प्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति॥ 5–39–30 दुर्योधनेन यद्येतत्पापं तेषु पुराकृतम्। त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर॥ 5–39–31 तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः। भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम्॥ 5–39–32 सुव्याहृतानि धीराणां फलतः परिचिन्त्य यः। अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति॥ 5–39–33 असम्यगुपयुक्तं हि ज्ञानं स[सु]कुशलैरपि। उपलभ्यं चाविदितं विदितं चाननुष्ठितम्॥ 5–39–34 पापोदयफलं विद्वान्यो नारभति वर्धते। यस्तु पूर्वकृतं पापमविमृश्यानुवर्तते। अगाधपङ्के दुर्मेधा विषमे विनिपात्यते॥ 5–39–35 मन्त्रभेदस्य षट्प्राज्ञो द्वाराणीमानि लक्षयेत्। अर्थसन्ततिकामश्च रक्षेदेतानि नित्यशः॥ 5–39–36 मदं स्वप्नमविज्ञानमाकारं चात्मसम्भवम्। दुष्टामात्येषु विश्रम्भं दूताच्चाकुशलादपि॥ 5–39–37 द्वाराण्येतानि यो ज्ञात्वा संवृणोति सदा नृप। त्रिवर्गाचरणे युक्तः स शत्रूनधितिष्ठति॥ 5–39–38 न वै श्रुतमविज्ञाय वृद्धाननुपसेव्य वा। धर्मार्थौ वेदितुं शक्यौ बृहस्पतिसमैरपि॥ 5–39–39 नष्टं समुद्रे पतितं नष्टं वाक्यमशृण्वति। अनात्मनि श्रुतं नष्टं नष्टं हुतमनग्निकम्॥ 5–39–40 मत्या परीक्ष्य मेधावी बुद्ध्या सम्पाद्य चासकृत्। श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत्॥ 5–39–41 अकीर्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः। हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम्॥ 5–39–42 परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया। परीक्षेत कुलं राजन्भोजनाच्छादनेन च॥ 5–39–43 उपस्थितस्य कामस्य प्रतिवादो न विद्यते। अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः॥ 5–39–44 प्राज्ञोपसेविनं वैद्यं धार्मिकं प्रियदर्शनम्। मित्रवन्तं सुवाक्यं च सुहृदं परिपालयेत्॥ 5–39–45 दुष्कुलीनः कुलीनो वा मर्यादां यो न लङ्घयेत्। धर्मापेक्षी मृदुर्ह्रीमान्स कुलीनशताद्वरः॥ 5–39–46 ययोश्चित्तेन वा चित्तं निभृतं निभृतेन वा। समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यते[ति]॥ 5–39–47 दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव। विवर्जयीत मेधावी तस्मिन्मैत्री प्रशेष्य[णश्य]ति॥ 5–39–48 अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च। तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः॥ 5–39–49 कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम्। जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते॥ 5–39–50 इन्द्रियाणामनुत्सर्गो मृत्युनापि विशिष्यते। अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतान्यपि॥ 5–39–51 मार्दवं सर्वभूतानामनसूया क्षमा धृतिः। आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना॥ 5–39–52 अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते। मतिमास्थाय सुदृढां तदकापुरुषव्रतम्॥ 5–39–53 आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः। अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते॥ 5–39–54 कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते। तदेवापहरत्येनं तस्मात्कल्याणमाचरेत्॥ 5–39–55 मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम्। भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम्॥ 5–39–56 अनिर्वेदः श्रियो मूलं लाभस्य च शुभस्य च। महान्भवत्यनिर्विण्णः सुखं चानन्त्यमश्नुते॥ 5–39–57 नातः श्रीमत्तरं किञ्चिदन्यत्पथ्यतमं तथा[मतम्]। प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा॥ 5–39–58 क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात्। अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता॥ 5–39–59 यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते। कामं तदुपसेवेत न मूढव्रतमाचरेत्॥ 5–39–60 दुःखार्तेषु प्रशान्ते[मत्ते]षु नास्तिकेष्वलसेषु च। न श्रीर्वसत्यदान्तेषु ये चोत्साहविवर्जिताः॥ 5–39–61 आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम्। अशक्तं मन्यमानास्तु धर्षयन्ति कुबुद्धयः॥ 5–39–62 अत्यार्यमतिदातारमतिशूरमतिव्रतम्। प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति॥ 5–39–63 न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च। नैषां गुणान्कामयते नैर्गुण्यान्नानुरज्यते। उन्मत्ता गौरिवान्धा श्रीः क्वचिदेवावतिष्ठते॥ 5–39–64 अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम्। रतिपुत्रफला नारी दत्तभुक्तफलं धनम्॥ 5–39–65 अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम्। न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात्॥ 5–39–66 कान्तारे वनदुर्गेषु कृच्छ्रास्वापत्सु सम्भ्रमे। उद्यतेषु च शस्त्रेषु नास्ति सत्त्ववतां भयम्॥ 5–39–67 उत्थानं संयमो दाक्ष्याद[क्ष्यम]प्रमादो धृतिः स्मृतिः। समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तु॥ 5–39–68 तपो बलं तापसानां ब्रह्म ब्रह्मविदां बलम्। हिंसा बलमसाधूनां क्षमा गुणवतां बलम्॥ 5–39–69 अष्टौ तान्यव्रतघ्नानि ह्या[आ]पो मूलं फलं पयः। हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्॥ 5–39–70 न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः। सङ्ग्रहेणैष धर्मः स्यात्कामादन्यः प्रवर्तते॥ 5–39–71 अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत्। जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम्॥ 5–39–72 स्त्रीधूर्तकेऽलसे भीरौ ष[च]ण्डे प[पु]रुषमानिनि। चो[चौ]रे कृतघ्ने विश्वासो न कार्यो न च नास्तिके॥ 5–39–73 अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि सम्प्रवर्धन्ते कीर्तिरायुर्यशो बलम्॥ 5–39–74 अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च[वा]। अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः॥ 5–39–75 अविद्यः पुरुषः शोच्यः शोच्यं मैथुनमप्रजम्। निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम्॥ 5–39–76 अध्वा जरा देहवतां पर्वतानां जलं जरा। असम्भोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा। अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्॥ 5–39–77 मलं पृथिव्या बाह्लीकाः पुरुषस्यानृतं मलम्। कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः॥ 5–39–78 सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु। ज्ञेयं त्रपुमलं सीसं सीसस्यापि मलं मलम्॥ 5–39–79 न स्वप्नेन जयेन्निद्रां न कामेन जयेत्स्त्रियः। नेन्धनेन जयेदग्निं न पानेन सुरां जयेत्॥ 5–39–80 यस्य दानजितं मित्रं शत्रवो युधि निर्जिताः। अन्नपानजिता दाराः सफलं तस्य जीवितम्॥ 5–39–81 सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा। धृतराष्ट्र विमुञ्चेच्छां न कथञ्चिन्न जीव्यते॥ 5–39–82 यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः। नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति॥ 5–39–83 राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर। समता यदि ते राजन्स्वेषु पाण्डुसुतेषु वा॥ 5–39–84 इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये एकोनचत्वारिंशोऽध्यायः॥ 39 ॥ चत्वारिंशोऽध्यायः प्रजागरपर्व धर्ममहत्त्वप्रतिपादनं ब्राह्मणादिचतुर्विधवर्णानां धर्मस्य सङ्क्षेपतो वर्णनम् विदुर उवाच योऽभ्यर्चितः सद्भिरसज्जमानः करोत्यर्थं शक्तिमहापयित्वा। क्षिप्रं यशस्तं समुपैति सन्तमलं प्रसन्ना हि सुखाय सन्तः॥ 5–40–1 महान्तमप्यर्थमधर्मयुक्तं यः सन्त्यजत्यनपाकृष्ट एव। सुखं सुदुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य॥ 5–40–2 अनृते च समुत्कर्षो राजगामि च पैशुनम्। गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया॥ 5–40–3 असूयैकपदं मृत्युरतिवादः श्रियो मदः[वधः]। अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः॥ 5–40–4 आलस्यं मदमोहौ च चापलं गोष्ठिरेव च। स्तब्धता चाभिमानित्वं तथात्यागित्वमेव च। एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः॥ 5–40–5 सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्। सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम्॥ 5–40–6 नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः। नान्तकः सर्वभूतानां न पुंसां वामलोचना॥ 5–40–7 आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः कदर्यता। अपालनं हन्ति पशूंश्च राजन्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम्॥ 5–40–8 अजाश्च कांस्यं रजतं च नित्यं मध्वाकर्षः शकुनिः श्रोत्रियश्च। वृद्धो ज्ञातिरवसन्नः कुलीन एतानि ते सन्तु गृहे सदैव॥ 5–40–9 अजोक्षा चन्दनं वीणा ह्या[आ]दर्शो मधुसर्पिषी। वृ[वि]षभौ[मौ]दुम्बरं शङ्खः स्वर्णनाभोऽर्थ[थ] रोचना॥ 5–40–10 गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत्। देवब्राह्मणपूजार्थमतिथीनां च भारत॥ 5–40–11 इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम्। न जातु कामान्न भयान्न लोभाद्धर्मं जह्याज्जीवितस्यापि हेतोः॥ 5–40–12 नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो धा[हे]तुरस्य त्वनित्यः। त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये सन्तुष्य त्वं तोषपरो हि लाभः॥ 5–40–13 महाबलान्पश्य महानुभावान्प्रशास्य भूमिं धनधान्यपूर्णाम्। राज्यानि हित्वा विपुलांश्च भोगान्गतान्नरेन्द्रान्वशमन्तकस्य॥ 5–40–14 मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति। तं मुक्तकेशाः करुणं रुदन्ति चितामध्ये काष्ठमिव क्षिपन्ति॥ 5–40–15 अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून्। द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः॥ 5–40–16 उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः। अपुष्पानफलान्वृक्षान्यथा तात पतत्रिणः॥ 5–40–17 अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयङ्कृतम्। तस्मात्तु पुरुषो यत्नाद्धर्मं सञ्चिनुयाच्छनैः॥ 5–40–18 अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारम्। तद्वै महामोहनमिन्द्रियाणां बुध्यस्व मा त्वां प्रलभेत राजन्॥ 5–40–19 इदं वचः शक्ष्यसि चेद्यथावन्निशम्य सर्वं प्रतिपत्तुमेव। यशः परं प्राप्स्यसि जीवलोके भयं न चामुत्र न चेह तेऽस्ति॥ 5–40–20 आत्मा नदी भारत पुण्यतीर्था सत्योदका धृतिकूला दयोर्मिः। तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमलोभ एव॥ 5–40–21 कामक्रोधग्राहवतीं पञ्चेद्रियजलां नदीम्। नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर॥ 5–40–22 प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं विद्यावृद्धं वयसा चापि वृद्धम्। कार्याकार्ये पूजयित्वा प्रसाद्य यः सम्पृच्छेन्न स मुह्येत्कदाचित्॥ 5–40–23 धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा। चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा॥ 5–40–24 नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी। सत्यं ब्रुवन्गुरवे कर्म कुर्वन्न ब्राह्मणश्च्यवते ब्रह्मलोकात्॥ 5–40–25 अधीत्य वेदान्परिसंस्तीर्य चाग्नीनिष्ट्वा यज्ञैः पालयित्वा प्रजाश्च। गोब्राह्मणार्थे[र्थं] शस्त्रपूतान्तरात्मा हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति॥ 5–40–26 वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च धनैः काले संविभज्याश्रितांश्च। त्रेतापूतं धूममाघ्राय पुण्यं प्रेत्य स्वर्गे दिव्यसुखानि भुङ्क्ते॥ 5–40–27 ब्रह्म क्षत्रं वैश्यवर्णं च शूद्रः क्रमेणैतान्न्यायतः पूजयानः। तुष्टेष्वेतेष्वव्यथो दग्धपापस्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते॥ 5–40–28 चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो हेतुं चानुब्रुवतो मे निबोध। क्षात्राद्धर्माद्धीयते पाण्डुपुत्रस्तं त्वं राजन्राजधर्मे नियुङ्क्ष्व॥ 5–40–29 धृतराष्ट्र उवाच एवमेतद्यथा त्वं मामनुशाससि नित्यदा। ममापि च मतिः सौम्य भवत्येवं यथाऽऽत्थ माम्॥ 5–40–30 सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा। दुर्योधनं समासाद्य पुनर्विपरिवर्तते॥ 5–40–31 न दिष्टमप्य[भ्य]तिक्रान्तुं शक्यं भूतेन केनचित्। दिष्टमेव ध्रुवं मन्ये पौरुषं तु निरर्थकम्॥ 5–40–32 इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये चत्वारिंशोऽध्यायः॥ 40 ॥